|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.56. अध्यायः 056
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन पाण्डवभावं बुभुत्सुं दुर्योधनंप्रति तेषां युद्धोत्कण्ठाकथनपूर्वकं तद्रथाश्ववर्णनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
5-56-0(33977)
दुर्योधन उवाच। 5-56-0x(3563)
अक्षौहिणीः सप्त लब्ध्वा राजभिः सह सञ्जय।
किंस्विदिच्छति कौन्तेयो युद्धप्रेप्सुर्युधिष्ठिरः ॥ 5-56-1(33978)
सञ्जय उवाच। 5-56-2x(3564)
अतीव मुदितो राजन्युद्धप्रेप्युर्युधिष्ठिरः।
भीमसेनार्जुनौ चोभौ यमावपि न बिभ्यतः ॥ 5-56-2(33979)
रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन्दिशः।
मन्त्रं जिज्ञासमानः सन्बीभत्सुः समयोजयत् ॥ 5-56-3(33980)
तमपश्याम सन्नद्धं मेघं विद्युद्युतं यथा।
समन्तात्समभिध्या हृष्यमाणोऽभ्यभाषत।
पूर्वरूपमिदं पश्य वयं जेष्याम सञ्जय ॥ 5-56-4(33981)
बीभत्सुर्मां यथोवाच तथाऽवैम्यहमप्युत ॥ 5-56-5(33982)
दुर्योधन उवाच। 5-56-6x(3565)
प्रशंसस्यभिनन्दंस्तान्पार्थानक्षपराजितान्।
अर्जुनस्य रथे ब्रूहि कथमश्वाः कथं ध्वजाः ॥ 5-56-6(33983)
सञ्जय उवाच। 5-56-7x(3566)
भौमनः सह शक्रेण बहुचित्रं विशांपते।
रूपाणि कल्पयामास त्वष्टा धाता सदा विभो॥ 5-56-7(33984)
ध्वजे हि तस्मिन्रूपाणि चक्रुस्ते देवमायया।
महाधनानि दिव्यानि महान्ति च लघूनि च ॥ 5-56-8(33985)
भीमसेनानुरोधायक हनूमान्मारुतात्मजः।
आत्मप्रतिकृतिं तस्मिन्ध्वज आरोपयिष्यति ॥ 5-56-9(33986)
सर्वा दिशो योजनमात्रमन्तरं
सतिर्यगूर्ध्वं च रुरोध वै ध्वजः।
न संसञ्जेत्तरुभिः संवृतोऽपि
तथा हि माया विहिता भौमनेन ॥ 5-56-10(33987)
यथाऽऽकाशे शक्रधनुः प्रकाशते
न चैकवर्णं न च वेद्मि किं नु तत्।
तथा ध्वजो विहितो भौमनेन
बह्वाकारं दृश्यते रूपमस्य ॥ 5-56-11(33988)
यथाऽग्निधूमो दिवमेति रुद्ध्वा।
वर्णान्बिभ्रत्तैजसांश्चित्ररूपान्।
तथा ध्वजो विहितो भौमनेन
न चेद्भारो भविता नोत रोधः ॥ 5-56-12(33989)
श्वेतास्तस्मिन्वातवेगाः सदश्वा
दिव्या युक्ताश्चित्ररथेन दत्ताः।
भुव्यन्तरिक्षे दिवि वा नरेन्द्र
येषां गतिर्हीयते नात्र सर्वा ।
शतं यत्तत्पूर्यते नित्यकालं
हतंहतं दत्तवरं पुरस्तात् 5-56-13(33990)
तथा राज्ञो दन्तवर्णा बृहन्तो
रथे युक्ता भान्ति तद्वीर्यतुल्याः।
ऋक्षप्रख्या भीमसेनस्य वाहा
रथे वायोस्तुल्यवेग बभूवुः ॥ 5-56-14(33991)
कल्माषाङ्गास्तित्तिरिचित्रपृष्ठा
भ्रात्रा दत्ताः प्रीयता फाल्गुनेन।
भ्रातुर्बीरस्य स्वैस्तुरङ्गैर्विशिष्टा
मुदा युक्ताः सहदेवं वहन्ति ॥ 5-56-15(33992)
माद्रीपुत्रं नकुलं त्वाजमीढं
महेन्द्रदत्ता हरयो वाजिमुख्याः ।
समा वायोर्बलवन्तस्तरस्विनो
वहन्ति वीरं वृत्रशत्रुं यथेन्द्रम् । 5-56-16(33993)
तुल्याश्चैभिर्वयसा विक्रमेण
महाजवाश्रित्ररूपाः सदश्वाः ।
सौभद्रादीन्द्रौपदेयान्कुमारान्
वहन्त्यश्वा देवदत्ता बृहन्तः ॥ ॥ 5-56-17(33994)
इति श्रीमन्महाभारते उद्योगपर्वणि यानसन्धिपर्वणि षट्पञ्चाशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-56-3 मन्त्रं अस्त्रप्रयोजकं जिज्ञासमानः परीक्षितुमिच्छन् ॥ 5-56-7 भौमनो विश्वकर्मा। धाता प्रजापतिः ॥ 5-56-8 ते त्वष्टृशक्रधातारः रूपाणि चक्रुः ॥ 5-56-10 रुरोध स्वतेजसेति शेषः ॥ 5-56-12 भारो रथे रोधुः द्वारादौ द्वयमपि न भवेत् ॥ 5-56-13 यत्तत् अश्वानां शतं हतंहतं पुनःपुनः कतिपयाश्वहननेपि भावात् शतं पूर्यते। यतः पुरस्ताद्दत्तवरम् ॥ 5-56-17 देवदत्ताः चित्ररथेन दत्ताः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|